Author Archives: SANSKRITJAGAT

बाहुलकं किम् ?

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यतोऽपि विधेर्विधानं बहुधा समीक्ष्य  चतुर्विधं बाहुलकं वदन्ति ।। क्वचिद् अप्रयोज्ये प्रयुज्यते, क्वचित् प्रयुज्येऽपि न प्रयुज्यते । क्वचिद् विकल्पेन प्रयुज्यते, क्वचित् अन्यथैव प्रयुज्यते । एवं बहुलं चतुर्विधम् भवति । भाषा :  कहीं अप्रयोज्य स्थान में प्रयोग, कहीं प्रयोज्य स्थान में अप्रयोग । कहीं विकल्प से प्रयोग तथा कहीं किसी अन्य ही प्रकार से… Read More »

श्लोकमाध्यमेन अष्टादशपुराणानां स्मरणम्

अष्टादशपुराणानि मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिङ्गकूर्मानि पुराणानि प्रचक्षते ।। मद्वयम् १- मत्स्य (१) २- मार्कण्डेय (२) भद्वयम् १- भविष्य (३) २- भागवत (४) ब्रत्रयम् १- ब्रह्म (५) २- ब्रह्मवैवर्त (६) ३- ब्रह्माण्ड (७) वचतुष्टयम् १- विष्णु (८) २- वामन (९) ३- वायु (१०) ४- वराह (११) अ अग्नि (१२) ना नारद (१३) प… Read More »

देवस्तुतिः केन कीदृशञ्च

स्वयं यजति चेद् देवमुत्तमा सोदरात्मजैः । मध्यमा या यजेद् भृत्यैरधमा याजनक्रिया ।। देवं स्वतः पूजयति तर्हि तत् पूजनम् उत्तमम्  स्वभ्रात्रा पुत्रेण वा पूजनं कारयति तर्हि पूजनं मध्यमम् सेवकैः देवार्चनं कारयति तर्हि पूजनम् अधमम् इति भाषा : देवता की पूजा स्वतः करने से उत्तम, भाई या पुत्रादि से कराने पर मध्यम और नौकरों से कराई गयी… Read More »

पञ्च देवतरवः ।।

पञ्चैते देवतरवो मन्दारः पारिजातकः सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ।। १- मन्दारः २- पारिजातः ३- सन्तानः ४- कल्पवृक्षः ५- हरिचन्दनम् 

काव्यं यशसे…. (वृत्तिमात्रम्)

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ।।                                         काव्यप्रकाश 0१⁄०२ ।।   वृत्ति : कालिदासादीनामिव यशः‚ श्रीहर्षादेर्धावकादीनामिव धनम्‚ राजादिगतोचिताचारपरिज्ञानम्‚ आदित्यादेर्मयूरादीनामिवानर्थनिवारणम्‚ सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतम्‚ विगलितवेद्यान्तरमानन्दम्‚ प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः‚ सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च शब्दर्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत्काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र… Read More »

नियतिकृतनियम….. (वृत्तिमात्रम्)

नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।।                                                         काव्यप्रकाश ०१⁄०१ ।।   वृत्ति : नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः तादृशी ब्रह्मणो निर्मितिर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः अत एव जयति । जयतीतर्थेन च नमस्कार आक्षिप्यत इति तां प्रत्यास्मि प्रणत… Read More »

साहित्यम् – व्युत्पत्तिः‚ परिभाषा च ।

साहित्यशब्दस्य व्युत्पत्तिः –  सम् + धा + क्त दधातेर्हि (धा स्थाने हि आदेशः) सम् + हि + क्त अनुबन्धलोपः (लशक्वतद्धितेः सूत्रेण प्रत्ययादिककारस्य इत् संज्ञा‚ लोपश्च) सम् + हि + त सम् + हित   मोSनुस्वारः (मकारस्य अनुस्वारादेशः) संहित लुम्पेदवश्यमः कृत्ये तुङ्काममनसोरपि‚  समो हितततयोर्वा मांसस्य पचि युड्घञोः । उपर्युक्त नियमेन ʺहितʺ शब्दः परे सति ʺसम्ʺ उपसर्गस्य… Read More »

ततः किं ततः किम् – (श्रीगुरु-अष्टकम्) ।।

शरीरं सुरुपं तथा वा कलत्रं  यशश्चारू चित्रं धनं मेरुतुल्यम्  । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।। कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।। षडंगादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः… Read More »

मम तापमपाकुरु देव, मम पापमपाकुरु देव ।।

गरुडगमन तव चरणकमलमिह मनसि लसतु मम नित्यम् मनसि लसतु मम नित्यम् ॥ मम तापमपाकुरु देव मम पापमपाकुरु देव ॥ जलजनयन विधिनमुचिहरणमुख विबुधविनुत-पदपद्म -2 मम तापमपाकुरु देव मम पापमपाकुरु देव ॥ भुजगशयन भव मदनजनक मम जननमरण-भयहारी -2 मम तापमपाकुरु देव मम पापमपाकुरु देव ॥ शङ्खचक्रधर दुष्टदैत्यहर सर्वलोक-शरण -2 मम तापमपाकुरु देव मम पापमपाकुरु देव ॥ अगणित-गुणगण… Read More »

श्री कृष्णाष्टकम् ।।

भजे व्रजैकमण्डनं, समस्तपापखण्डनम् । स्वभक्तचित्तरञ्जनं, सदैव नन्दनन्दनम् ।। सुपिच्छगुच्छमस्तकं, सुनादवेणुहस्तकम् । अनङ्गरङ्गसागरं, नमामि कृष्णनागरम् ॥ १ ॥ मनोजगर्वमोचनं विशाललोललोचनम् । विधूतगोपशोचनं नमामि पद्मलोचनम् ।। करारविन्दभूधरं स्मितावलोकसुन्दरम् । महेन्द्रमानदारणंष, नमामि कृष्णवारणम् ॥ २ ॥ कदम्बसूनकुण्डलं सुचारुगण्डमण्डलम् । व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम् ।। यशोदया समोदया सगोपया सनन्दया । युतं सुखैकदायकं नमामि गोपनायकम् ॥ ३ ॥ सदैवपादपङ्कजं मदीयमानसेनिजम् ।… Read More »